जय पशुपतिनाथ (Aum Namah Shivya)

March 6, 2009

Maha Ganapati Mool Mantra (महा गणपति मुल मन्त्र)

महा गणपति मुल मन्त्र

ॐ श्रीं ह्रीं क्लीं ग्लौं गं गणपतये वर वरद सर्वजनं मे वशमानय स्वाहा॥

एकदन्ताय विद्‌महे ।
वक्रतुण्डाय धीमहि ।
तन्नो दन्ती प्रचोदयात् ॥
ॐ शान्तिः शान्तिः शान्तिः ॥
Aum shrim hrim klim glaum gam ganapataye vara vara da sarva janamme vashamanaya svaha

February 7, 2009

मृतसञ्जीवन स्तोत्रम् (Mritasanjeevani Stotram)

मृतसञ्जीवन स्तोत्रम्
एवमारध्य गौरीशं देवं मृत्युञ्जयमेश्वरं |
मृतसञ्जीवनं नाम्ना कवचं प्रजपेत् सदा ||

सारात् सारतरं पुण्यं गुह्याद्गुह्यतरं शुभं |
महादेवस्य कवचं मृतसञ्जीवनामकं ||
समाहितमना भूत्वा शृणुष्व कवचं शुभं |
शृत्वैतद्दिव्य कवचं रहस्यं कुरु सर्वदा ||

वराभयकरो यज्वा सर्वदेवनिषेवितः |
मृत्युञ्जयो महादेवः प्राच्यां मां पातु सर्वदा ||
दधाअनः शक्तिमभयां त्रिमुखं षड्भुजः प्रभुः |
सदाशिवोऽग्निरूपी मामाग्नेय्यां पातु सर्वदा ||

अष्टदसभुजोपेतो दण्डाभयकरो विभुः |
यमरूपि महादेवो दक्षिणस्यां सदावतु ||
खड्गाभयकरो धीरो रक्षोगणनिषेवितः |
रक्षोरूपी महेशो मां नैरृत्यां सर्वदावतु ||

पाशाभयभुजः सर्वरत्नाकरनिषेवितः |
वरुणात्मा महादेवः पश्चिमे मां सदावतु ||
गदाभयकरः प्राणनायकः सर्वदागतिः |
वायव्यां मारुतात्मा मां शङ्करः पातु सर्वदा ||

शङ्खाभयकरस्थो मां नायकः परमेश्वरः |
सर्वात्मान्तरदिग्भागे पातु मां शङ्करः प्रभुः ||
शूलाभयकरः सर्वविद्यानमधिनायकः |
ईशानात्मा तथैशान्यां पातु मां परमेश्वरः ||

ऊर्ध्वभागे ब्रःमरूपी विश्वात्माऽधः सदावतु |
शिरो मे शङ्करः पातु ललाटं चन्द्रशेखरः ||
भूमध्यं सर्वलोकेशस्त्रिणेत्रो लोचनेऽवतु |
भ्रूयुग्मं गिरिशः पातु कर्णौ पातु महेश्वरः ||

नासिकां मे महादेव ओष्ठौ पातु वृषध्वजः |
जिह्वां मे दक्षिणामूर्तिर्दन्तान्मे गिरिशोऽवतु ||
मृतुय्ञ्जयो मुखं पातु कण्ठं मे नागभूषणः |
पिनाकि मत्करौ पातु त्रिशूलि हृदयं मम ||

पञ्चवक्त्रः स्तनौ पातु उदरं जगदीश्वरः |
नाभिं पातु विरूपाक्षः पार्श्वौ मे पार्वतीपतिः ||
कटद्वयं गिरीशौ मे पृष्ठं मे प्रमथाधिपः |
गुह्यं महेश्वरः पातु ममोरू पातु भैरवः ||

जानुनी मे जगद्दर्ता जङ्घे मे जगदम्बिका |
पादौ मे सततं पातु लोकवन्द्यः सदाशिवः ||
गिरिशः पातु मे भार्यां भवः पातु सुतान्मम |
मृत्युञ्जयो ममायुष्यं चित्तं मे गणनायकः ||

सर्वाङ्गं मे सदा पातु कालकालः सदाशिवः |
एतत्ते कवचं पुण्यं देवतानां च दुर्लभम् ||
मृतसञ्जीवनं नाम्ना महादेवेन कीर्तितम् |
सह्स्रावर्तनं चास्य पुरश्चरणमीरितम् ||

यः पठेच्छृणुयान्नित्यं श्रावयेत्सु समाहितः |
सकालमृत्युं निर्जित्य सदायुष्यं समश्नुते ||
हस्तेन वा यदा स्पृष्ट्वा मृतं सञ्जीवयत्यसौ |
आधयोव्याध्यस्तस्य न भवन्ति कदाचन ||

कालमृयुमपि प्राप्तमसौ जयति सर्वदा |
अणिमादिगुणैश्वर्यं लभते मानवोत्तमः ||
युद्दारम्भे पठित्वेदमष्टाविशतिवारकं |
युद्दमध्ये स्थितः शत्रुः सद्यः सर्वैर्न दृश्यते ||

न ब्रह्मादीनि चास्त्राणि क्षयं कुर्वन्ति तस्य वै |
विजयं लभते देवयुद्दमध्येऽपि सर्वदा ||
प्रातरूत्थाय सततं यः पठेत्कवचं शुभं |
अक्षय्यं लभते सौख्यमिह लोके परत्र च ||

सर्वव्याधिविनिर्मृक्तः सर्वरोगविवर्जितः |
अजरामरणो भूत्वा सदा षोडशवार्षिकः ||
विचरव्यखिलान् लोकान् प्राप्य भोगांश्च दुर्लभान् |
तस्मादिदं महागोप्यं कवचम् समुदाहृतम् ||

मृतसञ्जीवनं नाम्ना देवतैरपि दुर्लभम् ||

|| इति वसिष्ठ कृत मृतसञ्जीवन स्तोत्रम् ||

September 21, 2008

अष्टचिरञ्जीबी नामोच्चारण (Asta Chiranjeevi)

अष्टचिरञ्जीबी नामोच्चारण (Asta Chiranjeevi)

It is believed that reciting these names one will attend longevity. May you attend long and prosperous life.


॥ जय श्री पशुपतिनाथ ॥

श्री मार्कण्डेयाय नमः ।
श्री बलय नमः ।
श्री व्यासाया नमः ।
श्री हनुमते नमः ।
श्री बिभीषणाय नमः ।
श्री कृपाय नमः ।
श्री परशुरामाय नमः ।
श्री अश्वत्थाम्ने नमः ।
  ॥ इति शुभम् ॥

Mantra to be Recited on your Birthday (जन्मदिनमा गरिने उपसना)

Filed under: AUM, Birthday, Happy, Hindu, Janma Din, Mantra, OM, Religious, Sanskrit — shivu360 @ 7:37 am

जय पशुपतिनाथ 

Recite these Mantras on your Birthday, and feel blessed. 

Here is the Mantra for your Auspicious Birthday in devanagari .

ॐ मम जन्मनक्षत्रा नमः ‌‌।

ॐ जन्मराशाये नमः ।

ॐ जन्मतिथये नमः ।

ॐ जन्मवासराय नमः ।

ॐ जन्मपक्षाय नमः ।

ॐ जन्मलग्नाय नमः ।

ॐ जन्मसंवत्सराय नमः ।

ॐ जन्मऋतवे नमः ।

ॐ जन्मयुगाय नमः ।

ॐ जन्ममासाय नमः ।

ॐ जन्ममुहु्र्तय नमः ।

ॐ जन्मकरणाय नमः ।

ॐ प्रजापतये नम: ।

ॐ ब्रह्नमणे नमः ।

ॐ विष्णवे नमः ।

ॐ शिवाय नमः ।

ॐ कुलदेवतायै नमः ।

ॐ ग्रामदेवताभ्येा नमः ।

ॐ इष्टदेवताभ्येा नमः ।

ॐ क्षत्रपालाय नमः ।

ॐ वास्तुपुरुषाय नमः ।

ॐ सप्तर्षिभ्येा नमः ।

ॐ सर्वेभ्येा देवेभ्येा नमः ।

इति पुजा॥

There is another mantra for called Asta Chiranjeevi. Reciting that will also benefit. I will shortly write this mantra on this blog ASAP. 

OM NAMAHA SHIVAYA, JAI SHRI PASHUPATINATH.

AUM SHANTI ! SHANTI !! SHANTI!!

Please add your comments and suggestions

Should there be any corrections please send them to me.

Blog at WordPress.com.