जय पशुपतिनाथ (Aum Namah Shivya)

February 8, 2009

Guru Stotram (गुरु स्तोत्रम्) – Prayer to Divine Teacher

Guru Stotram (गुरु स्तोत्रम्)

ब्रह्मानन्दं परमसुखदं केवलं ज्ञानमूर्तिं द्वन्द्वातीतं गगनसदृशं तत्वमस्यादिलक्ष्यम् |

एकं नित्यं विमलमचलं सर्वधीसाक्षिभूतम् भावतीतं त्रिगुणरहितं सदगुरुं तं नमामि ||

I prostrate myself before that Guru, the Bliss of Brahman, the bestower of Supreme Happiness, who is Knowledge absolute, transcending the pairs of opposites, expansive like the sky, the goal indicated by the great sayings like “Thou art That”, the one eternal, pure, unchanging, the witness of functions of the intellect, who is above all Bhavas (mental conditions) and the three Gunas (Sattva, Rajas and Tamas).  

अखण्डमण्डलाकारं व्याप्तं येन चराचरम् । 

तत्पदं दर्शितं येन तस्मै श्रीगुरवे नमः ॥

Salutation to the noble Guru,, who has made it possible to realise the state which pervades the entire cosmos, everything animate and inanimate.

अज्ञानतिमिरान्धस्य ज्ञानाञ्जनशलाकया । 

चक्षुरुन्मीलितं येन तस्मै श्रीगुरवे नमः ॥

Salutation to the noble Guru, who has opened the eyes blinded by darkness of ignorance with the collyrium-stick of knowledge.

गुरुर्ब्रह्मा गुरुर्विष्णुः गुरुर्देवो महेश्वरः । 

गुरुरेव परंब्रह्म तस्मै श्रीगुरवे नमः ॥

Salutation to the noble Guru, who is Brahma, Vishnu and Maheswara, the direct Parabrahma, the Supreme Reality.

स्थावरं जंगमं व्याप्तं यत्किंचित्सचराचरम् । 

तत्पदं दर्शितं येन तस्मै श्रीगुरवे नमः ॥

Salutation to the noble Guru, who has made it possible to realise Him, by whom all that is – sentient and insentient, movable and immovable is pervaded.

चिन्मयं व्यापियत्सर्वं त्रैलोक्यं सचराचरम् । 

तत्पदं दर्शितं येन तस्मै श्रीगुरवे नमः ॥

Salutation to the noble Guru, who has made it possible to realise Him pervades everything, sentient and insentient, in all three worlds.

त्सर्वश्रुतिशिरोरत्नविराजित पदाम्बुजः । 

वेदान्ताम्बुजसूर्योयः तस्मै श्रीगुरवे नमः ॥

Salutation to the noble Guru, whose lotus feet are radient with (the luster of) the crest jewel of all Srutis and who is the sun that causes the Vendanta Lotus (knowledge) to bloosom.

चैतन्यः शाश्वतःशान्तो व्योमातीतो निरंजनः । 

बिन्दुनाद कलातीतः तस्मै श्रीगुरवे नमः ॥

Salutation to the noble Guru,who is the ever effulgent, eternal, peaceful, beyond space, immaculate, and beyond the manifest and unmanifest.

ज्ञानशक्तिसमारूढः तत्त्वमालाविभूषितः । 

भुक्तिमुक्तिप्रदाता च तस्मै श्रीगुरवे नमः ॥

Salutation to that noble Guru, who is established in the power of knowledge, adorned with the garland of various principles and is the bestower of prospority and liberation.

अनेकजन्मसंप्राप्त कर्मबन्धविदाहिने ।

आत्मज्ञानप्रदानेन तस्मै श्रीगुरवे नमः ॥

Salutation to the noble Guru, who by bestowing the knowledge of the Self burns up the bondage created by accumulated actions of innumerable births.

शोषणं भवसिन्धोश्च ज्ञापणं सारसंपदः । 

गुरोः पादोदकं सम्यक् तस्मै श्रीगुरवे नमः ॥

Salutation to the noble Guru, by washing whose feet, the ocean of transmigration, endless sorrows is completely dried up and the Supreme wealth is revealed.

न गुरोरधिकं तत्त्वं न गुरोरधिकं तपः । 

तत्त्वज्ञानात्परं नास्ति तस्मै श्रीगुरवे नमः ॥

Salutation to the noble Guru, beyond whom there is no higher truth, there is no higher penance and there is nothing higher attainable than the true knowledge.

मन्नाथः श्रीजगन्नाथः मद्गुरुः श्रीजगद्गुरुः । 

मदात्मा सर्वभूतात्मा तस्मै श्रीगुरवे नमः ॥

Salutation to the noble Guru, who is my Lord and the Lord of the Universe, my Teacher and the Teacher of the Universe, who is the Self in me and the Self in all beings.

गुरुरादिरनादिश्च गुरुः परमदैवतम् । 

गुरोः परतरं नास्ति तस्मै श्रीगुरवे नमः ॥

Salutation to the noble Guru, who is both the beginning and beginningless, who is the Supreme Deity than whom there is none superior.

त्वमेव माता च पिता त्वमेव, त्वमेव बन्धुश्च सखा त्वमेव ।

त्वमेव विद्या द्रविणं त्वमेव, त्वमेव सर्वं मम देव देव ॥

(Oh Guru!) You are my mother and father; you are my brother and companion; you alone are knowledge and wealth. O Lord, you are everything to me.

October 19, 2008

Shiva Kavacham (शिव कवचम्)

शिव कवचम्

अस्य श्री शिवकवच स्तोत्रमहामन्त्रस्य ऋषभयोगीश्वर ऋषिः । 

अनुष्टुप् छन्दः । 

श्रीसाम्बसदाशिवो देवता । ओं बीजम् । नमः शक्तिः । शिवायेति कीलकम् । मम साम्बसदाशिवप्रीत्यर्थे जपे विनियोगः । 

करन्यासः 

ओं सदाशिवाय अंगुष्ठाभ्यां नमः । नं गंगाधराय तर्जनीभ्यां नमः । मं मृत्युञ्जयाय मध्यमाभ्यां नमः । 

शिं शूलपाणये अनामिकाभ्यां नमः । वां पिनाकपाणये कनिष्ठिकाभ्यां नमः । यं उमापतये करतलकरपृष्ठाभ्यां नमः । 

हृदयादि अंगन्यासः 

ओं सदाशिवाय हृदयाय नमः । नं गंगाधराय शिरसे स्वाहा । मं मृत्युञ्जयाय शिखायै वषट् । 

शिं शूलपाणये कवचाय हुं । वां पिनाकपाणये नेत्रत्रयाय वौषट् । यं उमापतये अस्त्राय फट् । भूर्भुवस्सुवरोमिति दिग्बन्धः ॥ 

ध्यानम् 

वज्रदंष्ट्रं त्रिनयनं कालकण्ठ मरिंदमम् । सहस्रकरमत्युग्रं वन्दे शंभुं उमापतिम् ॥ 

रुद्राक्षकङ्कणलसत्करदण्डयुग्मः पालान्तरालसितभस्मधृतत्रिपुण्ड्रः । पञ्चाक्षरं परिपठन् वरमन्त्रराजं ध्यायन् सदा पशुपतिं शरणं व्रजेथाः ॥ 

अतः परं सर्वपुराणगुह्यं निःशेषपापौघहरं पवित्रम् । जयप्रदं सर्वविपत्प्रमोचनं वक्ष्यामि शैवम् कवचं हिताय ते ॥ 

पञ्चपूजा 

लं पृथिव्यात्मने गन्धं समर्पयामि । हं आकाशात्मने पुष्पैः पूजयामि । यं वाय्वात्मने धूपम् आघ्रापयामि ॥ 

रं अग्न्यात्मने दीपं दर्शयामि । वं अमृतात्मने अमृतं महानैवेद्यं निवेदयामि । सं सर्वात्मने सर्वोपचारपूजां समर्पयामि ॥ 

मन्त्रः 

ऋषभ उवाच – – – 

नमस्कृत्य महादेवं विश्वव्यापिनमीश्वरम् । वक्ष्ये शिवमयं वर्म सर्वरक्षाकरं नृणाम् ॥ १॥ 

शुचौ देशे समासीनो यथावत्कल्पितासनः । जितेन्द्रियो जितप्राणश्चिन्तयेच्छिवमव्ययम् ॥ २॥ 

हृत्पुण्डरीकान्तरसन्निविष्टं स्वतेजसा व्याप्तनभोऽवकाशम् । अतीन्द्रियं सूक्ष्ममनन्तमाद्यं ध्यायेत् परानन्दमयं महेशम् ॥ 

ध्यानावधूताखिलकर्मबन्ध- श्चिरं चिदानन्द निमग्नचेताः । षडक्षरन्यास समाहितात्मा शैवेन कुर्यात्कवचेन रक्षाम् ॥ 

मां पातु देवोऽखिलदेवतात्मा संसारकूपे पतितं गभीरे । तन्नाम दिव्यं परमन्त्रमूलं धुनोतु मे सर्वमघं हृदिस्थम् ॥ 

सर्वत्र मां रक्षतु विश्वमूर्ति- र्ज्योतिर्मयानन्दघनश्चिदात्मा । अणोरणियानुरुशक्तिरेकः स ईश्वरः पातु भयादशेषात् ॥ 

यो भूस्वरूपेण बिभर्ति विश्वं पायात्स भूमेर्गिरिशोऽष्टमूर्तिः । योऽपां स्वरूपेण नृणां करोति संजीवनं सोऽवतु मां जलेभ्यः ॥ 

कल्पावसाने भुवनानि दग्ध्वा सर्वाणि यो नृत्यति भूरिलीलः । स कालरुद्रोऽवतु मां दवाग्नेः वात्यादिभीतेरखिलाच्च तापात् ॥ 

प्रदीप्तविद्युत्कनकावभासो विद्यावराभीति कुठारपाणिः । चतुर्मुखस्तत्पुरुषस्त्रिनेत्रः प्राच्यां स्थितो रक्षतु मामजस्रम् ॥ 

कुठारखेटाङ्कुश शूलढक्का- कपालपाशाक्ष गुणान्दधानः । चतुर्मुखो नीलरुचिस्त्रिनेत्रः पायादघोरो दिशि दक्षिणस्याम् ॥ 

कुन्देन्दुशङ्खस्फटिकावभासो वेदाक्षमाला वरदाभयाङ्कः । त्र्यक्षश्चतुर्वक्त्र उरुप्रभावः सद्योऽधिजातोऽवतु मां प्रतीच्याम् ॥ 

वराक्षमालाभयटङ्कहस्तः सरोजकिञ्जल्कसमानवर्णः । त्रिलोचनश्चारुचतुर्मुखो मां पायादुदीच्यां दिशि वामदेवः ॥ 

वेदाभयेष्टाङ्कुशटङ्कपाश- कपालढक्काक्षरशूलपाणिः । सितद्युतिः पञ्चमुखोऽवतान्मां ईशान ऊर्ध्वं परमप्रकाशः ॥ 

मूर्धानमव्यान्मम चन्द्रमौलिः भालं ममाव्यादथ भालनेत्रः । नेत्रे ममाव्याद्भगनेत्रहारी नासां सदा रक्षतु विश्वनाथः ॥ 

पायाच्छ्रुती मे श्रुतिगीतकीर्तिः कपोलमव्यात्सततं कपाली । वक्त्रं सदा रक्षतु पञ्चवक्त्रो जिह्वां सदा रक्षतु वेदजिह्वः ॥ 

कण्ठं गिरीशोऽवतु नीलकण्ठः पाणिद्वयं पातु पिनाकपाणिः । दोर्मूलमव्यान्मम धर्मबाहुः वक्षःस्थलं दक्षमखान्तकोऽव्यात् ॥ 

ममोदरं पातु गिरीन्द्रधन्वा मध्यं ममाव्यान्मदनान्तकारी । हेरम्बतातो मम पातु नाभिं पायात्कटिं धूर्जटिरीश्वरो मे ॥ 

ऊरुद्वयं पातु कुबेरमित्रो जानुद्वयं मे जगदीश्वरोऽव्यात् । जङ्घायुगं पुङ्गवकेतुरव्यात् पादौ ममाव्यात्सुरवन्द्यपादः ॥ 

महेश्वरः पातु दिनादियामे मां मध्ययामेऽवतु वामदेवः । त्रिलोचनः पातु तृतीययामे वृषध्वजः पातु दिनान्त्ययामे ॥ 

पायान्निशादौ शशिशेखरो मां गङ्गाधरो रक्षतु मां निशीथे । गौरीपतिः पातु निशावसाने मृत्युञ्जयो रक्षतु सर्वकालम् ॥ 

अन्तःस्थितं रक्षतु शंकरो मां स्थाणुः सदा पातु बहिःस्थितं माम् । तदन्तरे पातु पतिः पशूनां सदाशिवो रक्षतु मां समन्तात् ॥ 

तिष्ठन्तमव्याद् भुवनैकनाथः पायाद्व्रजन्तं प्रमथाधिनाथः । वेदान्तवेद्योऽवतु मां निषण्णं मामव्ययः पातु शिवः शयानम् ॥ 

मार्गेषु मां रक्षतु नीलकण्ठः शैलादिदुर्गेषु पुरत्रयारिः । अरण्यवासादि महाप्रवासे पायान्मृगव्याध उदारशक्तिः ॥ 

कल्पान्तकालोग्रपटुप्रकोप- स्फुटाट्टहासोच्चलिताण्डकोशः । घोरारिसेनार्णव दुर्निवार- महाभयाद्रक्षतु वीरभद्रः ॥ 

पत्त्यश्वमातङ्गरथावरूथिनी- सहस्रलक्षायुत कोटिभीषणम् । अक्षौहिणीनां शतमाततायिनां छिन्द्यान्मृडो घोरकुठार धारया ॥ 

निहन्तु दस्यून्प्रलयानलार्चिः ज्वलत्त्रिशूलं त्रिपुरान्तकस्य । शार्दूलसिंहर्क्षवृकादिहिंस्रान् संत्रासयत्वीशधनुः पिनाकः ॥ 

दुः स्वप्न दुः शकुन दुर्गति दौर्मनस्य- दुर्भिक्ष दुर्व्यसन दुःसह दुर्यशांसि । उत्पाततापविषभीतिमसद्ग्रहार्तिं व्याधींश्च नाशयतु मे जगतामधीशः ॥

 

ॐ नमो भगवते सदाशिवाय 

सकलतत्वात्मकाय सर्वमन्त्रस्वरूपाय सर्वयन्त्राधिष्ठिताय सर्वतन्त्रस्वरूपाय सर्वतत्वविदूराय ब्रह्मरुद्रावतारिणे नीलकण्ठाय पार्वतीमनोहरप्रियाय सोमसूर्याग्निलोचनाय भस्मोद्धूलितविग्रहाय महामणि मुकुटधारणाय माणिक्यभूषणाय सृष्टिस्थितिप्रलयकाल- रौद्रावताराय दक्षाध्वरध्वंसकाय महाकालभेदनाय मूलधारैकनिलयाय तत्वातीताय गंगाधराय सर्वदेवादिदेवाय षडाश्रयाय वेदान्तसाराय त्रिवर्गसाधनाय अनन्तकोटिब्रह्माण्डनायकाय अनन्त वासुकि तक्षक- कर्कोटक शङ्ख कुलिक- पद्म महापद्मेति- अष्टमहानागकुलभूषणाय प्रणवस्वरूपाय चिदाकाशाय आकाश दिक् स्वरूपाय ग्रहनक्षत्रमालिने सकलाय कलङ्करहिताय सकललोकैककर्त्रे सकललोकैकभर्त्रे सकललोकैकसंहर्त्रे सकललोकैकगुरवे सकललोकैकसाक्षिणे सकलनिगमगुह्याय सकलवेदान्तपारगाय सकललोकैकवरप्रदाय सकललोकैकशंकराय सकलदुरितार्तिभञ्जनाय सकलजगदभयंकराय शशाङ्कशेखराय शाश्वतनिजावासाय निराकाराय निराभासाय निरामयाय निर्मलाय निर्मदाय निश्चिन्ताय निरहंकाराय निरंकुशाय निष्कलङ्काय निर्गुणाय निष्कामाय निरूपप्लवाय निरुपद्रवाय निरवद्याय निरन्तराय निष्कारणाय निरातंकाय निष्प्रपञ्चाय निस्सङ्गाय निर्द्वन्द्वाय निराधाराय नीरागाय निष्क्रोधाय निर्लोपाय निष्पापाय निर्भयाय निर्विकल्पाय निर्भेदाय निष्क्रियाय निस्तुलाय निःसंशयाय निरंजनाय निरुपमविभवाय नित्यशुद्धबुद्धमुक्तपरिपूर्ण- सच्चिदानन्दाद्वयाय परमशान्तस्वरूपाय परमशान्तप्रकाशाय तेजोरूपाय तेजोमयाय तेजोऽधिपतये जय जय रुद्र महारुद्र महारौद्र भद्रावतार महाभैरव कालभैरव कल्पान्तभैरव कपालमालाधर खट्वाङ्ग चर्मखड्गधर पाशाङ्कुश- डमरूशूल चापबाणगदाशक्तिभिंदिपाल- तोमर मुसल मुद्गर पाश परिघ- भुशुण्डी शतघ्नी चक्राद्यायुधभीषणाकार- सहस्रमुखदंष्ट्राकरालवदन विकटाट्टहास विस्फारित ब्रह्माण्डमण्डल नागेन्द्रकुण्डल नागेन्द्रहार नागेन्द्रवलय नागेन्द्रचर्मधर नागेन्द्रनिकेतन मृत्युञ्जय त्र्यम्बक त्रिपुरान्तक विश्वरूप विरूपाक्ष विश्वेश्वर वृषभवाहन विषविभूषण विश्वतोमुख सर्वतोमुख मां रक्ष रक्ष ज्वलज्वल प्रज्वल प्रज्वल महामृत्युभयं शमय शमय अपमृत्युभयं नाशय नाशय रोगभयं उत्सादयोत्सादय विषसर्पभयं शमय शमय चोरान् मारय मारय मम शत्रून् उच्चाटयोच्चाटय त्रिशूलेन विदारय विदारय कुठारेण भिन्धि भिन्धि खड्गेन छिन्द्दि छिन्द्दि खट्वाङ्गेन विपोधय विपोधय मुसलेन निष्पेषय निष्पेषय बाणैः संताडय संताडय यक्ष रक्षांसि भीषय भीषय अशेष भूतान् विद्रावय विद्रावय कूष्माण्डभूतवेतालमारीगण- ब्रह्मराक्षसगणान् संत्रासय संत्रासय मम अभयं कुरु कुरु मम पापं शोधय शोधय वित्रस्तं मां आश्वासय आश्वासय नरकमहाभयान् मां उद्धर उद्धर अमृतकटाक्षवीक्षणेन मां- आलोकय आलोकय संजीवय संजीवय क्षुत्तृष्णार्तं मां आप्यायय आप्यायय दुःखातुरं मां आनन्दय आनन्दय शिवकवचेन मां आच्छादय आच्छादय 

हर हर मृत्युंजय त्र्यम्बक सदाशिव परमशिव नमस्ते नमस्ते नमः ॥ 

पूर्ववत् – हृदयादि न्यासः । 

पञ्चपूजा ॥ 

भूर्भुवस्सुवरोमिति दिग्विमोकः ॥ 

फल श्रुतिः 

ऋषभ उवाच इत्येतत्परमं शैवं कवचं व्याहृतं मया । सर्व बाधा प्रशमनं रहस्यं सर्व देहिनाम् ॥ 

यः सदा धारयेन्मर्त्यः शैवं कवचमुत्तमम् । न तस्य जायते कापि भयं शंभोरनुग्रहात् ॥ 

क्षीणायुः प्राप्तमृत्युर्वा महारोगहतोऽपि वा । सद्यः सुखमवाप्नोति दीर्घमायुश्च विन्दति ॥ 

सर्वदारिद्रयशमनं सौमाङ्गल्यविवर्धनम् । यो धत्ते कवचं शैवं स देवैरपि पूज्यते ॥ 

महापातकसङ्घातैर्मुच्यते चोपपातकैः । देहान्ते मुक्तिमाप्नोति शिववर्मानुभावतः ॥ 

त्वमपि श्रद्दया वत्स शैवं कवचमुत्तमम् । धारयस्व मया दत्तं सद्यः श्रेयो ह्यवाप्स्यसि ॥ 

श्रीसूत उवाच – – – 

इत्युक्त्वा ऋषभो योगी तस्मै पार्थिव सूनवे । ददौ शङ्खं महारावं खड्गं च अरिनिषूदनम् ॥ 

पुनश्च भस्म संमंत्र्य तदङ्गं परितोऽस्पृशत् । गजानां षट्सहस्रस्य त्रिगुणस्य बलं ददौ ॥ 

भस्मप्रभावात् संप्राप्तबलैश्वर्य धृति स्मृतिः । स राजपुत्रः शुशुभे शरदर्क इव श्रिया ॥ 

तमाह प्राञ्जलिं भूयः स योगी नृपनन्दनम् । एष खड्गो मया दत्तस्तपोमन्त्रानुभावतः ॥ 

शितधारमिमं खड्गं यस्मै दर्शयसे स्फुटम् । स सद्यो म्रियते शत्रुः साक्षान्मृत्युरपि स्वयम् ॥ 

अस्य शङ्खस्य निर्ह्रादं ये शृण्वन्ति तवाहिताः । ते मूर्च्छिताः पतिष्यन्ति न्यस्तशस्त्रा विचेतनाः ॥ 

खड्गशङ्खाविमौ दिव्यौ परसैन्यविनाशकौ । आत्मसैन्यस्वपक्षाणां शौर्यतेजोविवर्धनौ ॥ 

एतयोश्च प्रभावेन शैवेन कवचेन च । द्विषट्सहस्र नागानां बलेन महतापि च ॥ 

भस्मधारण सामर्थ्याच्छत्रुसैन्यं विजेष्यसे । प्राप्य सिंहासनं पित्र्यं गोप्ताऽसि पृथिवीमिमाम् ॥ 

इति भद्रायुषं सम्यगनुशास्य समातृकम् । ताभ्यां संपूजितः सोऽथ योगी स्वैरगतिर्ययौ ॥ ॥ 

॥ इति श्रीस्कन्दमहापुराणे ब्रह्मोत्तरखण्डे शिवकवच प्रभाव वर्णनं नाम द्वादशोऽध्यायः संपूर्णः ॥ ॥

Get this widget | Track details | eSnips Social DNA

Blog at WordPress.com.